जय माता दी

 
जय माता दी
Ce Stamp a été utilisé 5 fois
श्री विन्ध्येश्वरी स्तोत्रम् निशुम्भ-शुम्भ मर्दिनीं, प्रचन्ड मुन्ड खन्डिनीं । वने रणे प्रकशिनीं, भजामि विन्ध्यवासिनीम् ॥ त्रिशुल – मुन्डधारिणीं, धराविघाहारिणीम्‌। गृहे – गृहे निवासिनीं, भजामि विन्ध्यवासिनीम्॥ दरिद्र्थ – दुःख हारिणीं, सदा विभूतिकारिणीम्‌। वियोगशोक – हारिणीं, भजामि विन्ध्यवासिनीम्॥ लसत्सुलोत – लोचनीं, जने सदा वरप्रदाम्‌। कपाल – शूल धारिणीं, भजामि विन्ध्यवासिनीम्॥ कराब्जदानदाधरां, शिवां शिवप्रदायिनीम्‌। वरा – वराननां शुभां, भजामि विन्ध्यवासिनीम्॥ कपीन्द्र – जामिनीप्रदां, त्रिधास्वरूपधारिणीम्‌। जले – स्थले निवासिनीं, भजामि विन्ध्यवासिनीम्॥ विशिष्ट – शिष्टकारिणीं, विशालरूप धारिणीम्‌। महोदरे – विलासिनीं, भजामि विन्ध्यवासिनीम्॥ पुरन्दरादिसेवितां, सुरारिवंशखंडिताम्‌। विशुद्ध – बुद्धिकारिणीं, भजामि विन्ध्यवासिनीम्॥ — इति श्री विन्ध्येश्वरीस्तोत्रं समाप्त —
Balises:
 
shwetashweta
Chargé par: shwetashweta

Noter cette image:

  • Actuellement 5.0/5 étoiles.
  • 1
  • 2
  • 3
  • 4
  • 5

6 Votes.