जय श्रीगणेश

 
जय श्रीगणेश
गणनायकाय गणदेवताय गणाध्यक्षाय धीमहि । गुणशरीराय गुणमण्डिताय गुणेशानाय धीमहि । गुणातीताय गुणाधीशाय गुणप्रविष्टाय धीमहि । एकदंताय वक्रतुण्डाय गौरीतनयाय धीमहि । गजेशानाय भालचन्द्राय श्रीगणेशाय धीमहि ॥ गानचतुराय गानप्राणाय गानान्तरात्मने । गानोत्सुकाय गानमत्ताय गानोत्सुकमनसे । गुरुपूजिताय गुरुदेवताय गुरुकुलस्थायिने । गुरुविक्रमाय गुह्यप्रवराय गुरवे गुणगुरवे । गुरुदैत्यगलच्छेत्रे गुरुधर्मसदाराध्याय । गुरुपुत्रपरित्रात्रे गुरुपाखण्डखण्डकाय । गीतसाराय गीततत्त्वाय गीतगोत्राय धीमहि । गूढगुल्फाय गन्धमत्ताय गोजयप्रदाय धीमहि । गुणातीताय गुणाधीशाय गुणप्रविष्टाय धीमहि । एकदंताय वक्रतुण्डाय गौरीतनयाय धीमहि । गजेशानाय भालचन्द्राय श्रीगणेशाय धीमहि ॥ ग्रन्थगीताय ग्रन्थगेयाय ग्रन्थान्तरात्मने । गीतलीनाय गीताश्रयाय गीतवाद्यपटवे । गेयचरिताय गायकवराय गन्धर्वप्रियकृते । गायकाधीनविग्रहाय गङ्गाजलप्रणयवते । गौरीस्तनन्धयाय गौरीहृदयनन्दनाय । गौरभानुसुताय गौरीगणेश्वराय । गौरीप्रणयाय गौरीप्रवणाय गौरभावाय धीमहि । गोसहस्राय गोवर्धनाय गोपगोपाय धीमहि । गुणातीताय गुणाधीशाय गुणप्रविष्टाय धीमहि । एकदंताय वक्रतुण्डाय गौरीतनयाय धीमहि । गजेशानाय भालचन्द्राय श्रीगणेशाय धीमहि ॥
Balises:
 
shwetashweta
Chargé par: shwetashweta

Noter cette image:

  • Actuellement 5.0/5 étoiles.
  • 1
  • 2
  • 3
  • 4
  • 5

1 Voter.